________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ११ (A)
एगट्ठिया अभिहिया, न य ववहारपणगं इहं दिटुं । भण्णइ एत्थेव तयं, दट्ठव्वं अंतगयमेव ॥ ८ ॥
नन्वभिहितान्येकार्थिकानि परमेतेष्वेकार्थिकेषु व्यवहारपञ्चकमागम-श्रुताऽऽज्ञाधारणा-जीतलक्षणं न दृष्टं नोपात्तं; जीतस्यैव केवलस्योपात्तत्वात्। अत्र सूरिराह'भण्यते' अत्रोत्तरं दीयते, अत्रैव एतेष्वेव एकार्थिकेषु तत् व्यवहारपञ्चकमन्तर्गतमेव द्रष्टव्यम् ॥ ८ ॥ कथम्? इत्याह
आगम-सुया उ सुत्तेण, सूइया अत्थतो उ ति-चउत्था । बहुजणमाइण्णं पुण जीयं उचियं ति एगटुं ॥ ९ ॥
'सूत्रेण' सूत्रशब्देन सूचिते आगम-श्रुते आगम-श्रुतव्यवहारौ । तथाहि-आगमव्यवहारिणः षट्, तद्यथा- केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, दशपूर्वी, नवपूर्वी च, श्रुतव्यवहारिणोऽवशेषपूर्वधरा एकादशाङ्गधारिणः कल्प-व्यवहारा
गाथा ७-१२ व्यवहारस्य पर्यायादि
११ (A)
१. य - वाभा० ॥ २.० मायण्णं -पु. प्रे० ॥
For Private And Personal Use Only