________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका १० (B)
सुत्ते१ अत्थे२ जीए,३ कप्पे४ मग्गे५ तहेव नाए६ य । तत्तो य ईच्छियव्वे,७ आयरिए८ चेव ववहारो ॥ ७ ॥
तत्तदर्थसूचनात् सूत्रम्, औणादिकी शब्दव्युत्पत्तिः, तच्च पूर्वाणि छेदसूत्राणि वा१ । तथा * अर्यते-प्रार्थ्यते मोक्षमभिलषद्भिरिति ‘अर्थः सूत्रस्याभिधेयम् २। तथा जीतं नाम प्रभूताऽनेकगीतार्थकृता मर्यादा; तत्प्रतिपादको ग्रन्थोऽप्युपचारात् जीतम्३। तथा कल्पन्ते समर्था भवन्ति संयमाध्वनि प्रवर्त्तमाना अनेनेति कल्प:४। 'मृजौ शुद्धौ' मृजन्ति शुद्धीभवन्त्यनेनातिचारकल्मषप्रक्षालनादिति मार्ग:५। उभयत्र व्यञ्जनात् घञ् [मलय. कृ.६-७] इति घञ् प्रत्ययः। तथा 'इण् गतौ', निपूर्वः, नितरामीयते गम्यते मोक्षोऽनेनेति न्याय:६। तथा सर्वैरपि मुमुक्षुभिरीप्स्यते आप्तुमिष्यते इतीप्सितव्य:७। आचर्यते स्म बृहत्पुरुषैरप्याचरितम्८ । व्यवहार इति पूर्ववत् ॥ ७॥ उक्तान्येकार्थिकानि । सम्प्रत्यत्रैवाऽऽक्षेपपरिहारावभिधित्सुराह
गाथा ७-१२ व्यवहारस्य पर्यायादि
१० (B)
१. इच्छिते या आ० इति चूर्णिसम्मतः पाठः ॥ २. आयरियव्वे य वव० खंभा० जेभा० ॥ ३. मजूष शु० वा० । मृजौष शु. मो०॥
For Private And Personal Use Only