SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १० (A) 'लौकिकादिर्वा' इति, यदि वा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यव्यवहारस्त्रिविधः, तद्यथा-लौकिकः, कुप्रावचनिको लोकोत्तरिकश्च, तत्र लौकिको यथा आनन्दपुरे : खड्गादावुद्गीर्णे (उत्कीर्णे) रूपकाणामशीतिसहस्रं दण्डः, मारितेऽपि तावानेव, प्रहारे तु . पतिते यदि कथमपि न मृतस्तर्हि रूपकपञ्चकं दण्डः, उत्कृष्टे तु कलहे प्रवृत्ते : अर्द्धत्रयोदशरूपका दण्डः। कुप्रावचनिको यथा यत्कर्म यो न करोति, न ततः कर्मणस्तस्य किञ्चिदिति। लोकोत्तरिको यथा- य एते पाण्डुरपटप्रावरणा जिनानामनाज्ञया स्वच्छन्दं विहरन्तः परस्परमशन-पानादिप्रदानरूपव्यवहारं कुर्वन्ति। भावव्यवहारो द्विधाआगमतो नोआगमतश्च। आगमतो व्यवहारपदार्थज्ञाता तत्र चोपयुक्तः, "उपयोगो भावनिक्षेप' इतिवचनात्। नोआगमतः पञ्चविधो व्यवहारः, तथा चाह- 'नोआगमतो पणगं भावे' इति। भावे विचार्यमाणे नोआगमतो व्यवहारो व्यवहारपञ्चकं-आगमः श्रुतम आज्ञा धारणा जीतमिति । नोशब्दो देशवचनः। तस्य पञ्चविधस्यापि नोआगमतो भावव्यवहारस्य सामान्येन एकार्थिकानि अमूनि ॥ ६ ॥ तान्येवाह गाथा ७-१२ व्यवहारस्य पर्यायादि १० (A) १. तुला - बृहत्कल्पभाष्ये ५१०८, जीतकल्पभाष्ये २३७३ ॥ २. पञ्चधा - वा० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy