________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ९ (B)
सम्प्रति व्यवहारस्य नामादिभेदप्रदर्शनार्थमाह
ववहारम्मि चउक्कं, दव्वे पत्तादि लोइयादी वा । नोआगमतो पणगं, भावे एगट्ठिया तस्स ॥ ६ ॥
व्यवहारे व्यवहारविषये चतुष्कं, किमुक्तं भवति?- चतुर्द्धा व्यवहारः, तद्यथानामव्यवहारः स्थापनाव्यवहारो द्रव्यव्यवहारो भावव्यवहारश्च। तत्र नाम-स्थापने सुप्रतीते, द्रव्यव्यवहारो द्विधा- आगमतो नोआगमतश्च। आगमतो व्यवहारपदज्ञाता तत्र चाऽनुपयुक्तः। नोआगमतस्त्रिधा-ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्। तत्र ज्ञशरीरभव्यशरीरव्यवहारौ गतौ, ज्ञशरीर-भव्यशरीरयोरन्यत्राऽनेकशोऽभिहितत्वात् । तद्व्यतिरिक्तमाह- दव्वे पत्ताइ लोइयादी वा 'द्रव्ये'- द्रव्यविषये व्यवहारो नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तः पत्रादिः, आधाराऽऽधेययोरभेदविवक्षणादयं निर्देशस्ततोऽयमर्थ:- ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यव्यवहारः खल्वेष एव ग्रन्थः पुस्तकपत्रलिखितः, आदिशब्दात् काष्ठसम्पुट-फलक-पट्टिकादिपरिग्रहः, तत्राऽप्येतद्ग्रन्थस्य लेखनसम्भवात्।
१. स्य लिखितस. खं० ॥
गाथा
व्यवहारस्य नामादिभेदा:
९ (B)
For Private And Personal Use Only