________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
श्री व्यवहार
सूत्रम् पीठिका
९ (A)
प्रत्यर्थिनोर्विवदमानयोर्व्यवहारार्थं स्थेयपुरुषमुपस्थितयोः स व्यवहारपरिच्छेदकुशलो व्यवहारविधापनसमर्थश्च स्थेयो यस्मात् 'हाउं एकस्स' त्ति सूत्रे षष्ठी पञ्चम्यर्थे प्राकृतत्वात्, प्राकृते हि विभक्तिव्यत्ययोऽपि भवति, यदाह-पाणिनिः स्वप्राकृतलक्षणे 'व्यत्ययोप्यासाम्' इति, यस्य यन्नाभवति, तस्मात् तद् हृत्वा आदाय यस्याऽऽभवति तस्मै द्वितीयाय वपति प्रयच्छति, एएण उ ववहारो इति एतेन-अनन्तरोदितेन कारणेन स स्थेयव्यापारो व्यवहारः। किमुक्तं भवति?-यस्मादेष स्थेयपुरुषो विवादनिर्णयाय एकस्माद् हरति अन्यस्मै प्रयच्छति, तस्मात् तद्व्यापारो वपन-हरणात्मकत्वाद् व्यवहार इति । एतावता समुदायार्थकथनं कृतम् । स च व्यवहारः द्विधा-विधिव्यवहारः अविधिव्यवहारश्च, तंत्राविधिव्यवहारपरित्यागेन विधिव्यवहार एव कर्तव्य इति प्रतिपादनार्थमाह- अहिगारो एत्थ उ विहीए अत्र एतस्मिन् शास्त्रे अधिकार:-प्रयोजनं व्यवहारेण विधिनैव विधिपूर्वकेणैव। 'तुशब्दः' एवकारार्थो भिन्नक्रमश्च, नाऽविधिना, अविधेर्मोक्षप्रतिपन्थित्वात् ॥ ५ ॥
गाथा
व्यवहारस्य नामादिभेदाः
तदेवमुक्तं व्यवहारशब्दस्य निर्वचनं, तच्च क्रियामात्रमपेक्ष्योक्तम् । अधिकृतग्रन्थयोजनायां तु करणव्युत्पत्तिराश्रयणीया-विधिना उप्यते हियते च येन स व्यवहार इति ।
१. तत्राप्यविधि० वा. मो० पु० ॥
For Private And Personal Use Only