SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८ (B) प्रपूर्वः, प्रशब्दोऽत्र दाने, प्रदातुं कीर्यते विक्षिप्यते इति प्रकिरणम् । 'परिसाडणा य' इति, | 'शट रुजायां' परिपूर्वः, परिशटति-परिभ्रश्यति तमन्यः प्रयुक्ते पूर्ववत् णिञ्, परिशाट्यते इति परिशाटना णि वेत्त्यास इत्यादिना अनः प्रत्ययः, आप् च । चः समुच्चये, 'एगट्ठमिति' एतत् शब्दचतुष्टयमेकार्थम्, 'एकार्थप्रवृत्ताः परस्परमेते पर्याया इति भावः, तेन | यदुक्तं भवति रोपणमिति प्रकिरणमिति परिशाटनेति वा तदुक्तं भवति वपनमिति। एतावता वपनशब्दस्य प्रदानलक्षणोऽर्थः समर्थितः। 'हारोत्ति य' इत्यादि हरणं हारः, हृतिहरणं, हियते इति वा एकार्थं, त्रयोप्येते शब्दा एकार्थिका इत्यर्थः ।।४॥ तदेवं वापशब्दस्य हारशब्दस्य च प्रत्येकमर्थोऽभिहितः सम्प्रति तयोरेव समुदितयोर) जिज्ञापयिषुरिदमाह अत्थी-पच्चत्थीणं, हाउं एक्कस्स वैवइ बिइयस्स । एएण उ ववहारो, अहिगारो एत्थ उ विहीए ॥५॥ 'अर्थी' याचकः यः परस्मात् 'ममेदं लभ्यमिति' याचते, 'प्रत्यर्थी' अर्थिनः प्रतिकूलः, किमुक्तं भवति ?- यः परस्य गृहीत्वा न किमपि तस्मै प्रयच्छति, तयोरर्थि गाथा ४-६ व्यवहारस्य नामादिभेदाः ८ (B) १. अत्थि-प्पच्च खं ॥२. ववति बीयस्स - वभा०॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy