SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ७ (B) नाणं नाणी नेयं, अन्ना वा मग्गणा भवे तितए, विविहं वा विहिणा वा, ववणं हरणं च ववहारो ॥ ३ ॥ एका तावन्मार्गणा त्रितयविषया कुम्भादित्रिक-सिद्धिदृष्टान्ते प्रागभिहिता, वाशब्दः प्रकारान्तरे अथवा इयमन्या तितियेत्ति त्रितयविषया । मार्गणा भवति, तामेवाह- नाणी नाणं नेयमिति, तत्र ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानम्, तत्र यथा ज्ञानमित्युक्ते ज्ञानिनो ज्ञानक्रियाकर्तुः ज्ञेयस्य च ज्ञानक्रियाविषयस्य परिच्छेद्यस्य सिद्धिर्भवति, तद्वितयसिद्धिमन्तरेण ज्ञानस्य ज्ञानत्वस्यैवासम्भवात्, एवमत्रापि व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते इति भवति त्रितयस्याप्युपक्षेपः। तदेवं सङ्कपतो व्यवहारादिपदत्रयस्य प्ररूपणा कृता । सम्प्रति यथाक्रमं विस्तरेण तां चिकीर्षुः प्रथमतो व्यवहारपदस्य निरुक्तं वक्तुकाम इदमाह- 'विविहं वा' इत्यादि, विविधं तद्योग्यतानुसारेण विचित्रं विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं तपःप्रभृत्यनुष्ठानविशेषस्य दानं, 'टुवप् बीजतन्तुसन्ताने' इति वचनात्, हरणम्-अतीचारदोषजातस्य अथवा सम्भूय द्वित्रादिसाधूनां गाथा व्यवहारव्यवहारिव्यवहर्तव्यस्वरूपम् ७ (B) १. अन्ना वि य म खं वा. मो० पु० जेभा खंभा० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy