SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पीठिका ७ (A) आगमः १ श्रुतम् २ आज्ञा ३ धारणा ४ जीतश्च ५ । आह चूर्णिकृत्,- 'पञ्चविधो व्यवहारः करणम्' इति। तेन च पञ्चविधेन व्यवहारेण करणभूतेन व्यवहरन् कर्ता यन्निष्पादयति कार्यं तद् व्यवहर्त्तव्यमित्युच्यते। तथा चाह- 'ववहरियव्वं कजं' यत् कार्यं कर्त्तव्यं व्यवहारेण तद् व्यवहर्तव्यं, व्यवहर्त्तव्य- कार्ययोगात् पुरुषा अपि 5 व्यवहर्त्तव्याः, ततः प्रागुक्तं 'ववहरियव्वा य जे जहा पुरिसा'[गा.१] इति। अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते? न खलु देवदत्तग्रहणेन यज्ञदत्तस्य सूचा भवतीति, तत आह कुंभादितियस्स जह सिद्धी कुम्भ आदिरेषामिति कुम्भादयस्तेषां त्रिकं कुम्भादित्रिकं, तस्य यथा सिद्धिः कुम्भग्रहणेन । तथाहि कुम्भ इत्युक्ते- स कृतक | इति तस्य कर्ता कुलालः, करणं मृच्चक्रादि सामर्थ्यात् सूच्यते, कृतकस्य सतः कर्तृकरणव्यतिरेकेणाऽसम्भवात् । एवमत्रापि व्यवहार इत्युक्ते व्यवहारी व्यवहर्त्तव्यश्च सूच्यते, १० करणस्यापि सकर्मकक्रियासाधकतमरूपस्य कर्म कर्तृव्यतिरेकेणासम्भवादिति त्रितय- 10 सिद्धिः ॥२॥ तदेवम् 'एकग्रहणे सामर्थ्यादितरस्य द्वयस्य ग्रहणं भवति' इत्येतत् सामान्येन सनिदर्शनमुक्तम् । सम्प्रति करणग्रहणेऽवश्यं कर्त-कर्मग्रहणं भवतीत्यर्थे निदर्शनमाह गाथा व्यवहारव्यवहारि व्यवहर्तव्यस्वरूपम् ७ (A) १.त् तन्यते-वा-मो पु० ॥ २. कृतकस्यासतः - मु. ।। ३. व्यवहारातिरे. ता० ॥ ४. करणेऽव. वा. मो० पु०॥ ५. कर्म भ० वा० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy