________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
पीठिका ६ (B)
कर्त्तव्याः, पाठान्तरं 'जे जहा काले' अस्यायमर्थः- ये यथा यस्मिन् काले व्यवहर्त्तव्याः। तद्यथा-यदा आगमव्यवहारिणः सन्ति, तदा तदुपदेशेनैव व्यवहर्त्तव्याः, तेषु व्यवच्छिन्नेषु । 15 श्रुतज्ञानव्यवहार्युपदेशेन, तदैव चाऽऽज्ञयापि, तदैव धारणया, तदैव तु जीतव्यवहारेणापि व्यवहर्त्तव्या इति । एतेषां' व्यवहार-व्यवहारि-व्यवहर्त्तव्यरूपाणां त्रयाणां 'पदानां', | 'तः विशेषणे, से चैतद्विशिनष्टि- सङ्कपतो विस्तरतश्च, प्रत्येकमिति एकमेकं प्रति प्रत्येकं, "शब्दप्रथा" [मलय नाम०८-५०] इत्यादिना अव्ययीभावः, एकैकस्येत्यर्थः, | 'प्ररूपणां' व्याख्यां वक्ष्ये ॥१॥ तत्र सङ्क्षपप्ररूपणार्थमिदमाह
ववहारी खलु कत्ता, ववहारो होइ करणभूतो उ ।
ववहरियव्वं कजं, कुंभादितियस्स जह सिद्धी ॥ २ ॥ __'ववहारी खलु कत्त'ति व्यवहारस्य कर्त्ता व्यवहारस्य छेत्ता अभिधीयते इति शेषः व्यवहारः पुनर्भवति करणभूतः व्यवहारच्छेदक्रियां प्रति करणत्वं प्राप्तः, तुशब्दः पुनरर्थे व्यवहितसम्बन्धश्च, स च यथास्थानं योजित एव, स च व्यवहारः करणभूतः पञ्चधा१. स चैवं वि० खं ॥
गाथा
व्यवहारव्यवहारिव्यवहर्तव्यस्वरूपम्
For Private And Personal Use Only