________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् पीठिका
५ (B)
www.kobatirth.org
20
परिमाणसङ्ख्याऽपि द्विविधा - सूत्रतोऽर्थतश्च तत्रार्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणं, 15 सूत्रतः परिमितपरिमाणम्, अक्षर-पद-पाद- श्लोक - गाथादीनां सङ्ख्यातत्वात् ।
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति वक्तव्यता सा च त्रिधा स्वसमयवक्तव्यता, परसमयवक्तव्यतां, स्वसमयपरसमयवक्तव्यता च ३ । स्वसमयः स्वसिद्धान्तः, तस्य वक्तव्यता पदार्थविचारः, तत्र प्रायेण सर्वाण्यपि अध्ययनानि स्वसमयवक्तव्यतायां समवतरन्तीत्यस्यापि स्वसमयवक्तव्यतायां समवतारः ।
इदानीमर्थाधिकारः- स चेह दानप्रायश्चित्तम्, आभवत्प्रायश्चित्तम्, आलोचनाविधिश्च । सम्प्रति समवतारः, स च लाघवार्थं प्रतिद्वारं समवतारणद्वारेण प्रदर्शित एव । उक्तः उपक्रमः ।
For Private And Personal Use Only
15
इदानीं निक्षेपः, स च त्रिधा - ओघनिष्पन्नो १ नामनिष्पन्नः २ सूत्रालापकनिष्पन्नश्च ३ । तत्र ओघो नाम यत्सामान्यं शास्त्राभिधानं तच्च चतुर्द्धा अध्ययनम् अक्षीणम् आयः क्षपणा च । एकैकं नाम-स्थापना - द्रव्य- भावभेदेन चतुर्भेदमनुयोगद्वारानुसारतः प्रपञ्चेनाभावाध्ययन-भावाक्षीण-भावाय भावक्षपणास्वेतदध्ययनमायोज्यम् । नामनिष्पन्ने - १. द्विधा - वा० मो० पु० ॥ २. व्ता उभयसमय मु. ॥ ३. तारणाद्वा० वा० मो० ॥ ४. द्वारतः प्र० वा० मो० पु० ॥
० भिधाय
उपक्रम
निक्षेपादि
५ (B)