SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shi Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५ (A) ऽऽगमोपमानभेदात् चतुष्प्रकारं, तत्र व्यवहाराध्ययनस्य प्रायः परोपदेशसव्यपेक्षत्वादागमे समवतारः। आगमोऽपि लौकिक-लोकोत्तरभेदाद् द्विधा, तत्रेदं व्यवहाराध्ययनं परमर्षिप्रणीतत्वात् लोकोत्तरे समवतरति । सोऽपि द्विधा आवश्यकमावश्यकव्यतिरिक्तश्च, तत्रेदमावश्यकव्यतिरिक्ते । आवश्यकव्यतिरिक्तोऽपि द्विधा-अङ्गप्रविष्टोऽनङ्गप्रविष्टश्च, तत्रेदमनङ्गप्रविष्टे । सोऽपि द्विधा कालिकोत्कालिकभेदात्, तत्रेदं कालिके। सोपि सूत्राऽर्थोभयात्माऽनन्तर-परम्परभेदभिन्नः, तत्रेदं सूत्राऽर्थरूपत्वात्तदुभये, तथेदं गणभृतां गौतमादीनां सूत्रत आत्मागमस्तच्छिष्याणां जम्बूस्वामिप्रभृतीनामनन्तरागमः प्रशिष्याणां तु प्रभवादीनां परम्परागमः, अर्थतो भगवतामर्हतामात्मागमो गणधराणामनन्तरागमः, तच्छिष्याणां परम्परागमः । नयप्रमाणे तु नास्य सम्प्रत्यवतारो मूढनयत्वात्, उक्तं च-मूढनइयं सुयं कालियं तु ०* उपक्रमइत्यादि। सङ्ख्या नाम-स्थापना-द्रव्य-क्षेत्र-कालोपमा-परिमाण-भावभेदात् अष्टप्रकारा निक्षेपादि यथा अनुयोगद्वारेषु तथा वक्तव्या, तत्र कालिकश्रुतपरिमाणसङ्ख्यायां समवतार: नोत्कालिकश्रुतपरिमाणसङ्ख्यायां, नापि दृष्टिवादश्रुतपरिमाणसङ्ख्यायां, कालिकश्रुत१. च - वा. मो० पु० ॥ - ५ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy