________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४ (B)
पूर्वी३ च । तत्र पूर्वानुपूर्व्यामिदं द्वितीयं, पश्चादानुपूर्त्यां प्रथम, द्वयोस्त्वनानुपूर्वी नास्ति । |*
21 अपरे तु दशभिर्दशाध्ययनैः सहेदं गणयन्ति, तत्र पूर्वानुपूर्व्यामिदं द्वादशं, पश्चादानुपूर्त्यां 15 व्यवहार- प्रथमम् अनानुपूक्मेकादयो द्वादशपर्यन्ता अङ्काः श्रेण्या व्यवस्थाप्यन्ते, तेषां च परस्परसूत्रम् |
मभ्यासे यावान् राशि: सम्पद्यते ४७९००१६०० तावन्तो द्विरूपोना भङ्गकाः ४७९००१५९८ । पीठिका
ते च कोटिसङ्ख्याकाः, तेषु च क्वचित् प्रथम क्वचिद् द्वितीयमित्यादि । नाम एकनामादि दशनामपर्यन्तं यथाऽनुयोगद्वारेषु, षण्णाम्नि त्ववतारः, तत्र षड् भावा औदयिकादयो - निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावे अवतारः, सर्वश्रुतस्य क्षायोपशमिकत्वात्।
प्रमाणं चतुर्द्धा, द्रव्यप्रमाणं १ क्षेत्रप्रमाणं २ कालप्रमाणं ३ भावप्रमाणं च ४। तत्र इदं व्यवहाराध्ययनं भावात्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा, तद्यथागुणप्रमाण१ नयप्रमाणं २ सङ्ख्याप्रमाणं ३ च। गुणप्रमाणमपि द्विधा, जीवगुणप्रमाण
उपक्रममजीवगुणप्रमाणं च । तत्र जीवादपृथग्भूतत्वात् व्यवहाराध्ययनस्य जीवगुणप्रमाणे
निक्षेपादि समवतारः, तदपि जीवगुणप्रमाणं त्रिधा-ज्ञान-दर्शन-चारित्रभेदात्, तत्र बोधात्मकत्वाद् व्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः। तदपि ज्ञानगुणप्रमाणं प्रत्यक्षा-ऽनुमाना- ४ (B) २. इदं - पु. प्रे. नास्ति ॥ ३. ज्ञानगुण ॥
For Private And Personal Use Only