________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ३ (A)
पाधिभेदभिन्नः, पुनरेकैको द्विविधः, परिकर्मणि वस्तुविनाशे च । तत्र द्रव्यस्य गुणविशेषपरिणाम-करणं-परिकर्म, तस्मिन् । सचित्तद्विपदद्रव्योपक्रमो यथा पुरुषस्य वर्णादिकरणम्, सचित्तचतुष्पदद्रव्योपक्रमो यथा हस्त्यादेः शिक्षाद्यापादनम्, सचित्ताऽपदद्रव्योपक्रमो-यथा वृक्षादेवृक्षायुर्वेदोपदेशाद् वृद्ध्यादिगुणकरणम् । वस्तुविनाशे पुरुषादीनां खड्गादिभिविनाशकरणम्। अचित्तद्रव्योपक्रमः परिकर्मणि यथा- पद्मरागमणेः क्षारमृत्पुटपाकादिना : नैर्मल्यापादनम्; वस्तुविनाशे विनाशकरणम् । मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिभूषितपुरुषादिद्रव्यस्य गुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः । क्षेत्रम्-आकाशं, तच्चामूर्तं नित्यं चेति न तस्य परिकर्मलक्षणो विनाशलक्षणो वा उपक्रमो घटते, तत
उपचारात् तदाश्रितस्येक्षुक्षेत्रादेस्तौ द्रष्टव्यौ । कालस्योपक्रमः परिकर्मणि चन्द्रोपरागादेर्य१० थावस्थितमर्वागेव परिज्ञान-करणम् । वस्तुविनाशे विवक्षिते काले तदुचितप्रयोजनस्याऽ- 10
सम्पादनं, तदसम्पादने हि स कालो विनाशितो भवति । भावोपक्रमो द्विधा आगमतो नोआगमतश्च, तत्राऽऽगमत उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः, "उपयोगो भावनिक्षेपः" इति वचनात्, नोआगमतो द्विविध:- प्रशस्तोऽप्रशस्तश्च, तत्राऽप्रशस्तो १. वृक्षायुर्वेदस्योल्लेखः वसुदेवहिंडीमध्येऽपि दृश्यते पृ. ५०॥ २. प्रतिज्ञा खं ।
अनुयोग द्वाराणि
३ (A)
For Private And Personal Use Only