________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पीठिका २ (B)
अनुयोगद्वाराणि नाम-अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमः१, निक्षेप:२ अनुगम:३, नया:४ इति; तत्र उपक्रमणमुपक्रमः- शास्त्रस्य समीपीकरणं१, निक्षेपणं निक्षेपो 1 नामादिन्यास:२, अनुगमनमनुगमः सूत्रस्यानुरूपमर्थाख्यानं ३, नया:- नैगमादयो वस्तुनः | पर्यायाणां यथासम्भवमेधिगमकारिणः ४।
तत्रोपक्रमो द्विविध:- शास्त्रीय इतरश्च, इतरः षट्प्रकार: नाम-स्थापना-द्रव्य-क्षेत्रकाल-भावभेदात्। तत्र नाम-स्थापने सुप्रतीते; द्रव्योपक्रमो द्विविधः आगमतो नोआगमतश्च,
आगमत उपक्रमशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्यम्' [अनुयोगद्वार] इति 20 वचनात् । नोआगमतस्त्रिविधो ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात् । तत्र यद् ० उपक्रमशब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं 'सिद्धिशिलातलादिगतं तद् भूतभावत्वात् ज्ञशरीरद्रव्योपक्रमः। यस्तु बालको नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चाऽवश्यमायत्यां भोत्स्यते, स भाविभावनिबन्धनत्वाद् भव्यशरीरद्रव्योपक्रमः। ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्त्रिविधः सचित्ता-ऽचित्त-मिश्रभेदात। तत्र सचित्तद्रव्योपक्रमो द्विपद-चतुष्पदा-ऽपदो१. नार्थं वा मो• पु० ॥ २. मभिग० वा० भो । ३. सिद्ध CB3 अनुयोगद्वारे च भा. १ पृ. ५ ॥
अनुयोग द्वाराणि
२ (B)
For Private And Personal Use Only