________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
..
श्री
व्यवहार
सूत्रम् पीठिका
.
२ (A)
४.15
विषमपदविवरणेन, व्यव्हर्त्तव्यो व्यधायि साधूनाम् । येनायं व्यवहारः श्रीचूर्णिकृते नमस्तस्मै ॥३॥ भाष्यं क्व चेदं विषमार्थगर्भ, क्व चाहमेषोऽल्पमतिप्रकर्षः ?।
तथापि सम्यग्गुरुपर्युपास्ति-प्रसादतो जातदृढप्रतिज्ञः॥४॥ उक्तं कल्पाध्ययनम्, इदानीं व्यवहाराध्ययनमुच्यते, तस्य चायमभिसम्बन्धः, कल्पाध्ययने आभवत्प्रायश्चित्तमुक्तं, न तु दानप्रायश्चित्तदानम् । व्यवहारे तु दानप्रायश्चित्तमालोचनाविधिश्चाभिधास्यते, तदनेन सम्बन्धेनाऽऽयातस्याऽस्य व्यवहाराध्ययनस्य 'विवरणं प्रस्तूयते।
अस्य च महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि- यथा नगरमकृत* द्वारम् अनगरं, कृतैकद्वारमपि च दुरधिगम, कृतचतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमम् | | एवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यमशक्याधिगमम्, एकद्वारानुगतमपि च दुरधि
गम, सप्रभेदचतुर्धारानुगतं तु सुखाधिगमम्, इति फलवान् द्वारोपन्यासः। १. प्रायश्चित्तं प्रोक्तं व्य० खं० ॥ २. व्याख्या प्र० वा. भो० ॥
| अनुयोग द्वाराणि
२ (A)
For Private And Personal Use Only