________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् पीठिका
१ (A)
15
www.kobatirth.org
॥ ॐ नमो जिनाय ॥ ॐ नमो वीतरागाय ॥ ॥ अहं ॥
श्रीमन्मलयगिरिविरचितविवरणयुतनिर्युक्ति-भाष्यसमेतम् श्री व्यवहारसूत्रम् पीठिका
आचार्य श्री मलयगिरिसूरि विरचितवृत्तौ मङ्गलाचरणम्
प्रणमत नेमिजिनेश्वर - मखिलप्रत्यूहतिमिररविबिम्बम् । दर्शनपथमवतीर्णं, शशिवद् दृष्टेः प्रसत्तिकरम् ॥१॥ नत्वा गुरुपदकमलं, व्यवहारमहं विचित्रनिपुणार्थम् । विवृणोमि यथाशक्ति, प्रबोधहेतोर्जडमतीनाम् ॥२॥
Acharya Shri Kailassagarsuri Gyanmandir
* इदं तु ध्येयम्- सम्पादनहेतुरस्माभिः (पु. प्रे.) पुण्यविजयजीसज्जीकृतमुद्रणार्हप्रति (Press Copy) उपयुक्ता अन्या अपि तालपत्रीयादिप्रतयः उपयुक्ताः सन्ति ।
*
पु.प्रे. मध्ये खं.वा.मो.पु इति चतस्त्र सङ्केतिताः सटीक ग्रन्थस्य प्रतयः, खंभा जेभा. वाभा. इति सङ्केतिताः तिस्रः भाष्यप्रतयः निर्दिष्टा सन्ति । सङ्केतानां विवरणं प्राप्तं नास्ति । अस्माभिः खंभातस्य C भांडारकरपुनाभंडारस्य तिस्रः B, B1, B2, जेसलमेरस्य J, सर्वास्तालपत्रीयाः प्रतय: उपयुक्ताः सन्ति । 15 सूत्रप्रतिषु जेसू, खंसू, संसू, प्रतिनां पाठभेदाः पु. प्रे. मध्ये दृश्यन्ते ॥
For Private And Personal Use Only
श्री
व्यवहारसूत्रम् पीठिका १ (A)