________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ९९ (A)
गुरुः, अत्र षड्गुरुकादारब्धं भिन्नमासे गुरौ निष्ठितम् ३ ।
चतुर्थपङ्क्तौ प्रथमे गृहके षड्लघु, द्वितीये चतुर्मासगुरु, तृतीयेऽपि चतुर्मासगुरु, चतुर्थे चतुर्लघु, पञ्चमेऽपि चतुर्लघु, षष्ठे मासगुरु, सप्तमेऽपि मासगुरु, अष्टमे मासलघु, नवमेऽपि मासलघु, दशमे भिन्नमासो गुरुः, एकादशेऽपि भिन्नमासो गुरुः, द्वादशे भिन्नमासो लघुः। अत्र षट्लघुकादारब्धं लघुभिन्न-मासे निष्ठितम् ४। पञ्चमपङ्क्तौ प्रथमे गृहे चतुर्मासगुरु, * द्वितीये चतुर्लघु, तृतीयेऽपि चतुर्लघु चतुर्थे मासगुरु, पञ्चमेऽपि मासगुरु, षष्ठे मासलघु सप्तमेऽपि मासलघु, अष्टमे भिन्नमासो गुरुः, नवमेऽपि भिन्नमासो गुरुः, दशमे भिन्नमासो लघुः, एकादशेपि भिन्नमासो लघुः द्वादशे गुरुविंशतिरात्रिन्दिवम्, अत्र चतुर्गुरुकादारब्धं गुरुविंशतौ निष्ठितम् ५। षष्ठपङ्क्तौ प्रथमगृहे चतुर्मासलघु, द्वितीये मासगुरु, तृतीयेऽपि मासगुरु, चतुर्थे मासलघु, पञ्चमेऽपि मासलघु, षष्ठे गुरुकं पञ्चविंशतिकम्, सप्तमेऽपि गुरुकं पञ्चविंशतिकम्। अष्टमे लघुपञ्चविंशतिकं, नवमेपि लघुपञ्चविंशतिकं, दशमे गुरुविंशतिकम्, एकादशेपि गुरुविंशतिकं, द्वादशे लघुविंशतिकम्, अत्र चतुर्लघुकादारब्धं लघुविंशतिके १. गुरुके विंशतिरात्रिन्दिवे स्थितम् ५ । ष० वा. मो० पु० मु० ॥
गाथा १६७ पुरुषमेदेषु प्रायश्चित्तदानविधिः
९९ (A)
For Private And Personal Use Only