________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* उपाध्यायस्य मूलमापन्नस्य कृतकरणस्य छेदः, अकृतकरणस्य षण्मासगुरुः, तत्रैवाऽपराधे भिक्षोरधिगतस्य स्थिरस्य कृतकरणस्य षण्मासगुरुः, अकृतकरणस्य षण्मासलघु, अधि
गतस्य भिक्षोरस्थिरस्य कृतकरणस्य षण्मासलघु, अकृतकरणस्य चतुर्मासगुरु, अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु, अकृतकरणस्य चतुर्मासलघु, अनधिगतस्य ९८ (B) भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलघु, तस्यैवाऽकृतकरणस्य मासगुरु । एवं प्रथमपङ्क्तौ मूलादारब्धं मासगुरुके निष्ठितम् १ । द्वितीयपङ्क्तौ प्रथमे गृहके छेदः, द्वितीये षड्गुरु, तृतीयेऽपि षड्गुरु, चतुर्थे षड्लघु, पञ्चमेऽपि षड्लघु, षष्ठे चतुर्गुरु, सप्तमेऽपि चतुर्गुरु, अष्टमे चतुर्लघु, नवमेऽपि चतुर्लघु, दशमे मासगुरु, एकादशेऽपि मासगुरु, द्वादशे मासलघु, अत्र छेदादारब्धं मासलघुके निष्ठितम् २।
तृतीयपङ्क्तौ प्रथमे गृहके षड्गुरु, द्वितीये षड्लघु, तृतीयेऽपि षड्लघु, चतुर्थे चतुर्मासगुरु । पञ्चमेऽपि चतुर्मासगुरु षष्ठे चतुर्मासलघु, सप्तमेऽपि चतुर्मासलघु, अष्टमे मासगुरु, नवमेऽपि मासगुरु, दशमे मासलघु, एकादशेऽपि मासलघु, द्वादशे भिन्नमासो
For Private And Personal Use Only
गाथा १६७ पुरुषमेदेषु
प्रायश्चित्तदानविधिः
९८ (B)