________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका
९५ (B)
उपाध्याये कृतकरणे तथारूपायां धृति-बलसमर्थतायां मूलम्, इतरथा छेदः । अकृतकरणे गुरुषण्मासिकम् । इहाऽऽचार्य उपाध्यायो वा यदि यतनया कारणे देशकालानुरूपप्रायश्चित्तस्थाने अवर्त्तिष्ट तदा शुद्धः, न प्रायश्चित्तविषयः, यतनया कारणे प्रवृत्तेः । अयतनया तु प्रायश्चित्तस्थाने प्रवृत्तौ मूलं छेदो वाऽऽचार्यस्य, उपाध्यायस्य तु गुरुकाद् (षण्मासगुरुकाद्) आरभ्योक्तप्रकारेण त्रिविधः प्रायश्चित्तस्य भेदः षड्गुरु छेदो मूलं च एवमुक्तानुसारतो भिक्षुष्वपि प्रायश्चित्तदानविधिरनुसरणीयः॥ १६५ ॥ एतदेव व्याचक्षाण आह
सव्वेसिं अविसिट्ठा, आवत्ती तेण पढमया मूलं । सावेक्खे गुरु मूलं, कयाऽकए होइ छेओ उं ॥ १६६ ॥ सावेक्खोत्ति व काउं, गुरुस्स कयजोगिणो भवे छेदो । अकयकरणंमि छग्गुरु, इइ अड्डोक्कंतीए नेयं ॥ १६७ ॥
गाथा १६३-१६७ व्यवहारस्य नामादिभेदाः
९५ (B)
१. जयणाए - मो. मु भाष्यप्रतिषु च ॥
For Private And Personal Use Only