________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ९६ (A)
इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीष्टः । यदा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादनम् अविशिष्टा, सापेक्षाणां च महत्यपराधे मूलं नाऽनवस्थाप्यं पाराञ्चितं वा, ततः प्रथमतया सर्वेषां मूलमापन्नमविशिष्टमधिकृत्य गुरु-लाघवचिन्तया प्रायश्चित्तदानविधिरुच्यते- तत्र सापेक्षे गुरौ आचार्ये, गाथायां विभक्तिलोपः प्राकृतत्वात्, कृते कृतकरणे प्रायश्चित्तं मूलं, सापेक्षे इति वचनात्, महत्यप्यपराधे गुरौ सापेक्षत्वाद् मूलमेव प्रायश्चित्तं, न तु अनवस्थाप्यं पाराञ्चितं वेति ज्ञापितम्। एतदेव चोपजीव्य प्रागप्येवमस्माभिर्व्याख्यातम्। अकृते अकृतकरणे गुराविति संबन्धादाचार्ये भवति प्रायश्चित्तं छेदः ॥ १६६ ॥
सावेक्खोत्ति व काउं इत्यादि, अत्र गुरुशब्देनोपाध्यायः प्रोच्यते, आचार्यस्योक्तत्वात्, गुरोः, उपाध्यायस्य कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापन्नस्यापि सापेक्ष इति | कृत्वा प्रायश्चित्तं छेदो भवति । तस्यापि कृतकरणस्य मनाग् निरपेक्षतायां मूलमपि
गाथा १६३-१६७ व्यवहारस्य नामादिभेदाः
९६ (A)
१. य. मो. ॥ २. वदता मह वा. मो० पु० ॥
For Private And Personal Use Only