________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ८८ (B)
प्रतिसेवितम्' इत्यावेदयति। भावप्रतिकुञ्चना यत् हृष्टेन सता प्रतिसेव्य 'ग्लानेन सता मया प्रतिसेवितम्' इत्यालोचयति ॥ १५०॥ उक्ता प्रतिकुञ्चना अधुना अनन्तरगाथोत्तरार्धं व्याख्यानयन् 'अज्झयणाण विसेसो' [गा. ३४] इति द्वारं व्याख्यानयति । तत्र 'चोयग' [गा. १४९] इत्यवयवं व्याचिख्यासुराह
कप्पंमि वि पच्छित्तं, ववहारंमि वि तमेव पच्छित्तं । कप्प-ववहाराणं को णु विसेसो ? त्ति चोएइ ॥ १५१ ॥ ननु कल्पेऽपि प्रायश्चित्तमुक्तं, व्यवहारेपि च तदेव प्रायश्चित्तमभिधीयते ततः | कल्प-व्यवहारयोः को नु विशेषः? नैव कश्चनापीतिभावः; नशब्दस्याऽऽक्षेपद्योतकत्वादिति चोदयति प्रश्नयति शिष्यः। अपि चाभिधानतोऽपि कल्प-व्यवहारयोविशेषानुपपत्तिः ॥ १५१॥ तथा चाह
जो अवितहववहारी, सो नियमा वट्टए उ कप्पंमि । इंय वि हु नत्थि विसेसो, अझयणाणं दुवेण्हं पि ॥ १५२ ॥
गाथा
१५०-१५४
कल्पव्यवहारयोर्विशेषः
८८ (B)
१. तहेव - वा. भो• पु० मु० ॥ २. इति वि - तिसृष्वपि भाष्यप्रतिषु ॥
For Private And Personal Use Only