________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका
८९ (A)
यो नाम साधुः अवितथव्यवहारी अवितथव्यवहारकारी स नियमाद् अवश्यंभावेन वर्त्तते एव, तुरेवकारार्थः, कल्पे आचारे, आचारवर्त्तिन एव यथोक्तावितथव्यवहारकारित्वात् । यश्च वर्त्तते कल्पे आचारे स नियमादवितथव्यवहारकारी, अवितथव्यवहारकारिण एवाचारे वृत्तिसम्भवात् इत्थं च परस्परमविनाभावित्वं कल्प-व्यवहारशब्दयोरेकार्थिकत्वात्, तथाहि- 'कल्पो व्यवहार आचार इत्यनर्थान्तरमिति' इय विहु इति इत्यपि एवमपि अर्थगत्याभिधानाऽभेदतोऽपि, आस्तां प्रागुक्तप्रकारेणाभिधेया-भेर्द इत्यपि शब्दार्थः। हुः निश्चितं द्वयोरपि कल्प-व्यवहारयोरध्ययनयोर्नास्ति विशेषः ॥ १५२॥ एवं परेणाऽभिधेयाऽभेदतोऽभिधानाऽभेदतश्चैक्ये प्रतिपादिते सूरिरभिधेयभेदं दर्शयन् 'कप्पारोवण'[गा. १४९] इति अवयवं व्याख्यानयति
कप्पंमि कप्पिया खलु, मूलगुणे चेव उत्तरगुणे य । ववहारे ववहरिया पायच्छित्ताऽऽभवंते य ॥ १५३ ॥
कल्पे कल्पाध्ययने कल्पितान्येव प्ररूपितान्येव, खलु शब्दस्यैवकारार्थत्वात्, न तु १. दतो (?त) इत्य खं० ॥ २. • हारयोरध्य० मो. प्रतौ संशोधितपाठः ॥ ३. गुणा चेव उत्तरगुणा य - जेभा० वाभा० ॥
गाथा १५०-१५४
कल्पव्यवहारयोर्विशेषः
८९ (A)
For Private And Personal Use Only