________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८७ (B)
अत्यन्तहीनमाना जातास्तथाऽपि धान्यानि मानभाण्डानि प्रस्थकादिपरिमाणपरिछेद्यानि, । तथैव संख्याव्यवहारस्य सर्वदाप्यवशिष्टत्वात्, एवमिहापि प्रायश्चित्तानां वैषम्येऽपि । अशठभावेन तपःकर्मणि प्रवृत्तिरान्तरं कारणं सर्वेषामप्यविशिष्टमति, शोधिमपि तुशब्दस्यापिशब्दार्थस्य भिन्नक्रमत्वात् तथैव धान्यानां प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि, प्रस्थकदृष्टान्तेन सर्वत्र तुल्यां विशोधिमवबुध्यस्वेति भावः ॥ १४८ ॥ उक्तमारोपणाप्रायश्चित्तम्। इदानीं प्रतिकुञ्चनाप्रायश्चित्तमाह
दव्वे खेत्ते काले, भावे पंलिउंचणा चउविगप्पा । चोयग! कप्पारोवण, इह इं भणिया पुरिसजाया ॥ १४९ ॥ प्रतिकुञ्च्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते, यया सा प्रतिकुञ्चना। सा | चतुर्विधा, तद्यथा- द्रव्ये द्रव्यविषया, एवं क्षेत्रे काले भावे च । अत्र परस्य प्रश्नमभिधित्सुराह- चोयगत्ति, अत्र चोदको ब्रूते- ननु कल्पेऽपि प्रायश्चित्तमभिहितं, व्यवहारेऽपि तदेव प्रायश्चित्तमभिधीयते इति द्वयोरप्यध्ययनयोर्विशेषाभावः। अत्रार्थे १. पलियंचणा - मो० । २. ०प्या । दव्वम्मि सचित्तं पडिसेवंते बेति अच्चित्तं ॥१४९॥ खेत्ते जणवयपडिसेवियं तु अद्धाणसेवियं बेति सुब्भिक्खे [गा.१५० ] जेभा० खंभा० ॥
गाथा १४६-१४९ | प्रतिकुञ्चनाप्रायश्चित्तादि
८७ (B)
For Private And Personal Use Only