________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
८७ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीर्थकरतीर्थवर्त्तिनश्च धैर्याद्यनुपपेता धैर्येण - धृतिबलेन, आदिशब्दात् संहननबलेन च कालदोषतोऽनुपपेताः । तए वित्ति तकानपि तद्धर्म्मता तेषामिव आदितीर्थकर - तीर्थवर्त्तिनामिव धर्म्मः, अंशठतादिकः स्वभावो येषां ते तद्धर्म्माणः, तद्भावः तद्धर्म्मता, सा शोधयति, इयमत्र भावना - इह अशठभावेनानिगूहितबल - वीर्यतया यथाशक्ति तपः कर्मणि प्रवृत्तिर्विशोधेरान्तरं कारणं तच्च बाह्यतपः कर्म्मणो वैषम्येऽपि सर्वेषामप्यविशिष्टम्, अतः सर्वेषां तुल्या विशोधिः, युक्तं चैतत् तथाहि प्रथमतीर्थकरतीर्थेऽपि न सर्वेषां देहबलं धृतिबलं च समानम्, अथ च सर्वेषामप्यशठभावतया प्रवृत्तेस्तुल्या विशोधिः, एवमत्रापि भावनीयमित्यदोषः ॥ १४७ ॥ अत्रैव निदर्शनमाह
पत्थगा जे पुरा आसि, हीणमाणा उ तेऽधुणा । माणभंडाणि धन्नाणि, सोहिं जाण तहेव य ॥ १४८ ॥
ये पुरा पूर्वकाले प्रस्थका आसीरन् ते कालदोषतः क्रमेण हीना हीनतरा जायमाना १. अशठत्वादिकः - वा. मो. पु. मु. ॥ २. णि अप्पाणि - जे. भा. । णि आगाणि खंभा. अत्र श्लोकेऽनुष्टुपः
छन्दः ।
For Private And Personal Use Only
गाथा
१४६-१४९ प्रतिकुञ्चनाप्रायश्चित्तादि
८७ (A)