________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पीठिका ८६ (B)
क्रमेण प्रतिक्षणमनन्तभागहीनमनन्तभागहीनं पतत् तावदायातं यावत् पश्चिमो भगवानर्हन् | वर्द्धमानस्वामी, ततः शारीरबलस्य धृतिबलस्य च विषमत्वाद् विषमं प्रायश्चित्तम् ॥ १४६ ॥ तथा चाह
संवच्छरेणावि न तेसि आसी, जोगाण हाणी दुविहे बलम्मि । जे यावि धिजाइअणोववेया, तद्धम्मया सोहयए तए वि ॥ १४७ ॥ तेषाम् आदितीर्थकरतीर्थवर्तिनां साधूनां द्विविधे बले शारीरे बले धृतिबले च अत्यन्तमुपचयप्राप्ते सति संवत्सरेणापि संवत्सरप्रमाणमपि तपः कुर्वतां न योगानां संयमव्यापाररूपाणां हानिरासीत्। मध्यमतीर्थकरतीर्थवर्त्तिनां द्विविधमपि बलं क्रमेणानन्तभागहीनमनंतभागहीनम्, अपश्चिमतीर्थकरतीर्थवर्त्तिनामत्यन्तहीनम्, अतो मध्यमकानां संवत्सरप्रमाणं तपः कुर्वतां महती योगहानिरिति तेषामष्टमासिकमुत्कृष्टं तपःकर्म व्यवस्थापितम्, अपश्चिमतीर्थकरतीर्थवर्तिनां तदपि कुर्वतां योगहानिरिति पाण्मासिकमुत्कृष्टं तप:कर्म तेषां प्रवर्त्तितम्। तदेवमुक्तं प्रायश्चित्तवैषम्ये कारणं, सम्प्रति तुल्यां विशोधिं प्रतिपादयति- जे यावीत्यादि, ये चापि मध्यमतीर्थकरतीर्थवर्त्तिनोऽपश्चिम
गाथा १४६-१४९ प्रतिकुञ्चनाप्रायश्चित्तादि
८६ (B)
For Private And Personal Use Only