SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८६ (A) पूर्वाः आदितीर्थकरतीर्थवर्त्तिनश्चरमाः पश्चिमतीर्थकरतीर्थवर्त्तिनो विषमशोधिका विषमप्रायश्चित्ता अभवन्। ततः कथं ते विषमशोधिका अविशेषेण शुद्ध्यन्ति सर्वात्मना शुद्धिमासादयन्ति?, न खलु कारणवैषम्ये कार्यमविषमं दृष्टम्, अत्र तु विषमं प्रायश्चित्तं, विशोधिस्तु सर्वेषामप्यविशेषेण तुल्या, ततो दुर्घटमेतदिति भावः । अत्र सूरयः-यत् प्रायश्चित्तवैषम्ये कारणं, यथा च कारणविषमतायामपि तुल्या विशोधिः, तदेतत् प्रतिपिपादयिषुः प्रथमतः प्रायश्चित्तवैषम्ये कारणमभिधित्सुरिदमाह-चोयग! इत्यादि, हे चोदक! उपपन्नप्रश्नकारिन्! प्रायश्चित्तवैषम्ये इदं वक्ष्यमाणकारणं वक्ष्ये। तच्च वक्ष्यमाणमवहितमनाः शृणु ॥ १४५ ॥ प्रतिज्ञातमेव निर्वाहयति कालस्स निद्धयाए देहबलं धिइबलं च जं पुरिमे । तदणंतभागहीणं, कमेण जा पच्छिमा अरिहा ॥ १४६ ॥ पुरिमे पूर्वे आदितीर्थकरतीर्थे कालस्य स्निग्धतया हेतुभूतया प्राणिनां देहबलं शारीरं | बलं तदुपष्टम्भतो धृतिबलं च यत् आसीत्, तत् अवसर्पिणीकालस्य तथास्वभावतया १. काले णिद्धे ओसहि -देह जेभा खंभा० चूर्णिप्रत्यन्तरेषु च । गाथा १४६-१४९ प्रतिकुञ्चनाप्रायश्चित्तादि ८६ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy