________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् पीठिका ८५ (B)
तपःकर्म छद्मस्थकाले कुर्वन् तपःकर्मपरिमाणं व्यवस्थापयति स स्वतीर्थे तावत्प्रमाणादधिकं तपःकर्म व्यवहरतः संसारदण्डेन दण्डयति । तस्मात्तस्य तीर्थे तावत्प्रमाणमेव व्यवहर्त्तव्यमिति ॥ १४३ ॥ अथ कस्य तीर्थे कियत्प्रमाणं तपःकर्म? इत्यत आह
संवच्छरं तु पढमे, मज्झिमगाणऽट्ठमासियं होइ । छम्मासपच्छिमस्स उ, माणं भणियं तु उक्कोसं ॥ १४४ ॥
प्रथमे प्रथमतीर्थकरकाले मानं तप:कर्मपरिमाणमुत्कृष्टं भणितं संवत्सरमेव, तरेवकारार्थः। मध्यमकानां द्वाविंशतितीर्थकृतां तपःकर्मपरिमाणमुत्कृष्टं भवति अष्टमासिकमष्टमासप्रमाणम्। पश्चिमस्य तु भगवतो वर्द्धमानस्वामिनः तपःकर्मपरिमाण मुत्कृष्टं भणितं षण्मासाः ॥ १४४ ॥ अत्रैव भूयः शिष्यशङ्कामाह
पुणरवि चोएइ ततो, पुरिमा चरमा य विसमसोहीया । किह सुझंती ते ऊ?, चोयग इणमो सुणसु वोच्छं ॥ १४५ ॥ एवमनन्तरोदिते सूरिणाऽभिहिते पुनरपि शिष्यश्चोदयति प्रश्नयति-यदि नामैवं ततः
गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि
८५ (B)
܀܀܀܀܀
For Private And Personal Use Only