________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८५ (A)
'तस्य' तीर्थकरस्य तीर्थे 'तुरेवकारार्थो भिन्नक्रमश्च, स चैवं योजनीयः,तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपःकर्म व्यवह्रियते इति व्यवहरणं, बहुलवचनात्कर्मण्यनट्, व्यवहरणीयमिति भावः। किमिव? इत्यत आह- 'घान्यपिटकमिव' धान्यप्रस्थक इव, किमुक्तं भवति? येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्त्तव्यः, न पुरातनः, नाप्यन्यः स्वमतिपरिकल्पितः, तथा भगवतापि तीर्थकरेण येन छद्मस्थकाले यावत् प्रमाणमुत्कृष्टं तपःकर्म कृतं तस्य तीर्थे आरोपणानिष्पन्नप्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं, नाधिकम्, अन्यथा राजाऽऽज्ञाखण्डनतो राजप्रयुक्तदण्डस्य इव भगवदाज्ञाखण्डनतः संसारदण्डस्य प्रवृत्तेः ॥ १४२ ॥ एवमेव धान्यपिटकदृष्टान्तं भावयति
जो जया पत्थिवो होइ, सो तया धनपत्थगं । ठावे अन्नं पुरिल्लेणं, ववहरंते य दंडए ॥ १४३ ॥
यो यदा पार्थिवः पृथिवीपतिर्भवति स तदा स्वकाले धान्यप्रस्थकमन्यं स्थापयति, तस्मिंश्च स्थापिते ये पुरिल्लेणंति, पुरातनेन, उपलक्षणमेतत्, स्वमतिपरिकल्पितेन वा व्यवहरन्ति, तान् तथा व्यवहरतो दण्डयति। एवं तीर्थकृदपि भगवान् यो यावत्प्रमाणमुत्कृष्टं
गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि
८५ (A)
For Private And Personal Use Only