________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ८४ (B)
इति ॥१४० ॥ अत्र चोदक आह
किं कारणं न दिज्जइ, छम्मासाण परतो उ आरुवणा? । भणइ गुरू सुण इणमो, जं कारण झोसिया सेसा ॥ १४१ ॥
षण्मासानां परत आरोपणाप्रायश्चित्तं न दीयते अत्र किं कारणम् ? आचार्य: प्रतिवचनमाह-जं कारणं ति 'निमित्त-कारण-हेतुषु सर्वा विभक्तय' इति वचनाद् अत्र हेतौ प्रथमा, ततोऽयमर्थ:-येन कारणेन षण्मासानां परतः शेषाणि रात्रिन्दिवपञ्चकादीनि प्रायश्चित्तानि झोषितानि त्यक्तानि तत्कारणं पुनरिदं वक्ष्यमाणमिति गुरुर्भणति ॥ १४१ ॥ तदेव कारणं दर्शयति
आरोवणनिप्फन्नं छउमत्थे जं जिणेहि उक्कोसं । तं तस्स उ तित्थम्मी ववहरणं धन्नपिडगं च ॥ १४२ ॥ 'छाास्थ्ये' छद्मस्थकाले ‘यत् जिनैः' स्वस्वकालाऽपेक्षया 'उत्कृष्टं' तप:कर्म कृतं
गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि
८४ (B)
१. गुरु पुण इ० चतसृष्वपि टीका प्रतिषु ॥ २.०णमेव गु० खं० ॥
For Private And Personal Use Only