________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पीठिका ८४ (A)
अपिशब्दादेवं ज्ञापितोऽपि यदा माययाऽन्यथाऽऽलोचयते तदा आरोपणायां क्रियमाणायां यत्र मासलघु आभवति तत्र मासगुरु प्रदातव्यमिति ज्ञापनार्थमारोपणातः प्रतिकुञ्चनाप्रायश्चित्तं भिन्नं कृतमिति । एवमुक्तेन प्रकारेण चतुर्णामपि प्रायश्चित्तानां नानात्वमिति ॥१३९॥ उक्तं संयोजनाप्रायश्चित्तं, तदुक्तौ यतः प्ररूपणापृथक्त्वमिति द्वारमप्युक्तम्।
साम्प्रतमारोपणाप्रायश्चित्तमाहपंचादि आरोवण, ने( ना )यव्वा जाव होंति छम्मासा ।
तेण पणगादियाणं, छण्हुवरिं झोसणं कुज्जा ॥ १४० ॥
रात्रिन्दिवपञ्चकादारभ्याऽऽरोपणा पंचादि रात्रिन्दिवपञ्चकादिकाः, आदिशब्दात् दशपञ्चदश- विंशतिरात्रिन्दिव-मासिकादिपरिग्रहः, ज्ञातव्या- तावद् यावत् षण्मासा भवन्ति, नाधिकम्। यत एवं तेन कारणेन षण्णां मासानामुपरि पणगाइयाणंति रात्रिन्दिवपञ्चकादीनां झोषणाम् अपनयनं कुर्यात्, षण्मासानामुपरि यदापद्यते प्रायश्चित्तं तत्सर्वं * त्यज्यते इति भावः, उक्तं च चूर्णी- 'छम्मासाण परं जं आवज्जइ तं सव्वं छंडिजइ' १. तेण पर मासियाणं - वाभा० । तेण पण भासियाणं-जेभा० खंभा० ।
गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि
८४ (A)
For Private And Personal Use Only