________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ८३ (B)
सागारिए मासा सागारिको नाम शय्यातरः, तस्मिन्सागारिके सागारिकपिण्डे अधिकृते ऐकाधिकारिकाणामपि नानात्वात् संयोजनाप्रायश्चित्तं सप्तमासाः ॥ १३८॥
केनापि प्रथमतो राजपिण्ड उपभुक्तः, ततस्तेनैव राजपिण्डे उपभुक्ते अनालोचिते एवाधाकर्मिकमुपभुक्तं, तदनन्तरमुदका ततोऽभ्याहृतमेवम्, एतान्यपि चत्वार्यैकाधिकारिकाणि, अधिकृत एव राजपिण्डदोषे शेषदोषाणां सम्भवात्। एतेषां च नानात्वमिति पृथगालोचनायां संयोजना दर्शाते-राजपिण्डे चत्वारो गुरुमासाः, आधाकर्मिकेऽपि चत्वारो गुरुमासाः, उदकार्टे लघुमासः, अभ्याहृतेऽपि लघुमास इत्यधिकृते राजपिण्डे उद्गमदोषादिना उद्गमदोषेण, आदिशब्दादुत्पादनादोषेणैषणादोषेण च; चशब्दादन्येन च यथासम्भवं संयोजनायां दसमासाः प्रायश्चित्तम्, एवमनया दिशा तत्तद्दोषसंयोजनातः संयोजनाप्रायश्चित्तमवसातव्यम्, एवं संयोजनायामनुमतायां मा भूदपरिमाणाशङ्का इति कस्मिन् तीर्थे कति मासा दीयन्ते प्रायश्चित्तम् ? इति परिज्ञानाय संयोजनात आरोपणा प्रायश्चित्तं पृथक्कृतम्, 'आलोयणाविही वि य' [गा.१३७] यद् यथा प्रतिसेवितं तत्तथैवाऽऽलोचयितव्यं, न तु मायया प्रतिकुञ्चनीयम्, अन्यथा मायया प्रतिकुञ्चने मायाप्रत्ययमधिकं मासगुरुं प्राप्नोतीत्येवं ज्ञापितः सन् यथाप्रतिसेवितमालोचयते, तत आलोचनाविधिरपि सम्यग् ज्ञापितः स्यात्,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
गाथा १३६-१३९
संयोजनाऽऽरोपणाप्रायश्चित्ते
८३ (B)
For Private And Personal Use Only