________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ८३ (A)
सेज्जायरपिंडे या, उदउल्ले खलु तहा अभिहडे य ।। आहाकम्मे य तहा, सत्त उ सागारिए मासा ॥ १३८॥ रण्णो आहाकम्मे, उदउल्ले खलु तहा अभिहडे य । दस मास रायपिंडे, उग्गमदोसाइणा चेव ॥ १३९॥
केनापि साधुना प्रथमतः शय्यातरपिण्ड उपभुक्तः, तस्मिन्ननालोचित एव तदनन्तरमुदकामासेवितं, ततोऽभ्याहृतं, तदनन्तरमाधाकम्मिकम्। एतानि चत्वार्य- * प्यैकाधिकारिकाणि, अधिकृत एव शय्यातरपिण्डदोषे अनालोचिते शेषदोषप्रायश्चित्तानां सम्भवात्। एतेषां चैकाधिकारिकाणामपि नानात्वं, न तु शय्यातरपिण्ड एव शेषाण्यन्तभवन्ति, ततः सर्वाण्यपि पृथगालोचनीयानि, न केवल एवैकः शय्यातरपिण्ड इति परिज्ञानाय संयोजना दर्श्यते। तत्र-शय्यातरपिण्डे मासलघु, उदकार्टेऽपि मासलघु, स्वग्रामाभ्याहतेऽपि मासलघु, आधाकम्मिके चत्वारो गुरुमासाः, 'गुरुगा आहाय' []इति | वचनात्, एवं शय्यातरपिण्डे अधिकृते संयोजनाप्रायश्चित्तं सप्तमासाः, तथा चाह-सत्त उ*
गाथा १३६-१३९
संयोजनाऽऽरोपणाप्रायश्चित्ते
८३ (A)
For Private And Personal Use Only