________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री व्यवहार
सूत्रम् पीठिका ८२ (B)
प्रतिसेवना, तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि। अन्यच्चैवमतिप्रसंग आपद्यते, तथाहि- संयोजनादीनि त्रीणि प्रायश्चित्तानि प्रतिसेवनारूपाणि भवन्त्यपि न प्रतिसेवना भवन्ति ततः प्रतिसेवनाऽपि न प्रतिसेवना स्यात् विशेषाभावात्, अनिष्टं चैतत्, तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, न शेषाणीति ॥ १३६ ॥ एवं चोदकेनाऽऽक्षिप्ते प्ररूपणापृथक्त्वे सूरिरुत्तरमाह
एगाहिगारिगाण वि, नाणत्तं केत्तिया व दिजंति? । आलोयणाविही वि य, इय नाणत्तं चउण्हं पि ॥ १३७ ॥
ऐकाधिकारिकाणि नाम- एकस्मिन् शय्यातरपिण्डादावधिकृतदोषेऽनालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि तान्यैकाधिकारिकाणि, एकाधिकारे भवानि ऐकाधिकारिकाणि, अध्यात्मादित्वाद् इकणितिव्युत्पत्तेः, तेषामप्यैकाधिकारिकाणां नानात्वं, न पुनरैकाधिकारितया एकत्वमिति यथा ज्ञायते एतदर्थं संयोजनाप्रायश्चित्तं पृथगुच्यते ॥ १३७॥ नानात्वमेव गाथाद्वयेन दर्शयति
गाथा १३६-१३९
संयोजनाऽऽरोपणाप्रायश्चित्ते
८२ (B)
१. अन्यथैव मु. ॥२. नोद.८॥
For Private And Personal Use Only