________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ८२ (A)
पाराञ्चितमिति ॥१३५॥ तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्चित्तम्। अधुना संयोजनाप्रायश्चित्तं वक्तव्यम्। अस्मिश्च व्याख्याते 'यतः प्ररूपणापृथक्त्वम्[गा.३८] इत्येतदपि द्वारं व्याख्यातं द्रष्टव्यम्, तत्र चोदकः संयोजनादीनां भेदानां प्ररूपणापृथक्त्वमाक्षिपन्नाह
पडिसेवणं विणा खलु, संजोगारोवणा न विजंति । माया वि य पडिसेवा अइप्पसंगो य इति एक्कं ॥ १३६ ॥
इह प्रायश्चित्तं सर्वमुत्पद्यते प्रतिसेवनातः, न खलु मूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनां | वा विना क्वापि प्रायश्चित्तस्य सम्भवः, 'पडिसेवियम्मि दिज्जइ पच्छित्तं इहरहा उ पडिसेहो' [गा.५२] इति वचनात्, ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तं च प्रतिसेवनामन्तरेण न भवतीति तयोः प्रतिसेवनायामेवान्तर्भावः। प्रतिकुञ्चनाप्रायश्चित्तमपि[गा.३६] न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुञ्चना नाम-माया, तथा चोक्तं 'पलिउंचणं ति य माय त्ति य नियडि त्ति य एगट्ठा' [व्यवहारचूर्णी] इति। माया च
गाथा १३६-१३९
संयोजनाऽऽरोपणाप्रायश्चित्ते
८२ (A)
१. पालियंचणं - खं. । पलिउंचणं ति वा मायत्ति वा णियडि त्ति वा एगट्ठ-इत्येतद्रूपो व्यवहारचूर्णी पाठः॥
For Private And Personal Use Only