________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ८१ (B)
षड्गुरु, पञ्चदिवसान् निरन्तरं पृथिव्यादीनां सङ्घट्टने षड्लघु, परितापने षड्गुरु, अपद्रावणे मासिकश्छेदः। षड् दिवसान्निरन्तरं सङ्घट्टने षट्गुरु, परितापने मासिकश्छेदः, अपद्रावणे चातुर्मासच्छेदः। सप्तदिवसान्निरन्तरं पृथिव्यादीनां सङ्घट्टने मासिकश्छेदः, परितापने च चातुर्मासिकः, अपद्रावणे पाण्मासिकः। अष्टौ दिवसान्निरन्तरं पृथिव्यादीनां सङ्घट्टने चातुर्मासिकः छेदः, परितापने पाण्मासिकः, अपद्रावणे मूलम् । उक्तं च-दोहि दिवसेहिं मासगुरुए आढवेत्ता चउगुरुते ठाइ जाव अट्ठहिं सपयं ति ॥ ___ अनन्तवनस्पतिकायिकं सट्टयति मासगुरु, परितापयति चतुर्लघु, अपद्रावयति चतुर्गुरु; द्विदिवसादिनिरन्तरसङ्घट्टनादिषूत्तरोत्तरैकैकस्थानवृद्धितः सप्तभिर्दिवसैर्मूलं, द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लघु, अत्र व्यादिदिवसनिरन्तरसङ्घट्टनादिषु षड्भिर्दिवसैर्मूलम्, त्रीन्द्रियं सङ्घट्टयति चतुर्गुरु, परितापयति षड्लघु, अपद्रावयति षड्गुरु, अत्र पञ्चभिर्दिवसैर्मूलम्, चतुरिन्द्रियं सङ्घट्टयति षड्लघु, परितापयतः षड्गुरु, अपद्रावयतो मासिकश्छेदः, अत्र चतुर्भिर्दिवसैर्मूलम्। पञ्चेन्द्रियं संघट्टयतः षड्गुरु, परितापयतः छेदः, अपद्रावयतो मूलम्, अत्र द्वयोर्दिवसयोरनवस्थाप्यं, त्रिषु दिवसेषु
४.
गाथा १३२-१३५ स्वाध्यायकायोत्सर्गतपांसि अकरणे प्राश्चित्तम्
४.
स.
स.
स.
८१ (B)
For Private And Personal Use Only