________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पीठिका ७४ (A) |
न विरुध्येते उत्सगर्गे कायोत्सर्गे ध्याने वाचिक-मानसे, वा-मनोयोगयोरपि विषयान्तरतो निरुध्यमानत्वात्, सूत्रे च द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। उक्तं च"बहुवयणेण दुवयणं"-इति। तीरं सञ्जातमस्येति तीरितः- परिपूर्णे सति सम्यग्विधिना पारितः, तस्मिन् तीरिते कायोत्सर्गे पुनस्त्रयाणां ध्यानानामन्यतरत् अन्यतमत् स्यात् । न पुनस्त्रितयमपि, भङ्गिकश्रुतगुणनव्यतिरेकेण प्रायोऽन्यत्र व्यापारान्तरे ध्यानत्रितयासम्भवात् ॥१२३ ॥ अथ यथा कायोत्सर्गे ध्यानलक्षणो गुणस्तथा किमन्येपि गुणाः सम्भवन्ति किंवा न? इति, उच्यते-सम्भवन्तीति ब्रूमः । तथा चाह
मणसो एंगग्गत्तं, जणयइ देहस्स हणइ जडत्तं । काउस्सग्गगुणा खलु, सुह-दुहमज्झत्थया चेव ॥ १२४ ॥
कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः खलु अमी। तद्यथा-कायोत्सर्गः सम्यग्विधिना | विधीयमानो नाम मनसः चित्तस्य एकाग्रत्वं एकालम्बनतां जनयति, तच्चैकाग्रत्वं परमं ध्यानं, 'जं थिरमज्झवसाणं तं झाणं' [ध्यानशतक गा.] इति वचनात् । तथा देहस्य शरीरस्य
गाथा
| १२४-१२६ कायोत्सर्गस्वरूपादि
७४ (A)
१. बहूवयणेण दुवयणं-पु. प्रे. । 'दुवयणे बहुवयणं चउत्थीविभत्तिए भण्णइ छट्ठी । दो हत्था दो पाया नमोत्थु देवाहिदेवाणं'॥ २. एक्कग्गत्तं - जेभा खंभा० ॥ ३. हरति वि० वा. पु० ॥
For Private And Personal Use Only