________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार- *
सूत्रम्
पीठिका
७३ (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनोयोगनिरोधात्मकं ३, च। तत्र कायोत्सर्गे किं ध्यानम् ? उच्यते- त्रिविधमपि, मुख्यतस्तु कायिकम् । तथा चाह—
कायचेट्टं निरुंभित्ता, मणं वायं च सव्वसो ।
ट्टईकाइए झाणे, सुहुमुस्सासवं मुणी ॥ १२२ ॥
कायचेष्टां कायव्यापारं तथा मनो वाचं च सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते। ततः कायोत्सर्गस्थो मुनिः सूक्ष्मोच्छ्वासवान्-उपलक्षणमेतत्, सूक्ष्मदृष्टिसञ्चारादिवांश्च, न खलु कायोत्सर्गे सूक्ष्मोच्छ्वासादयो निरुध्यन्ते, तन्निरोधस्य कस्यापि कर्तुमशक्यत्वात्, वर्त्तते कायिके ध्याने । एतच्चैवमुच्यते, तस्य स्पष्टमुपलक्ष्यमाणत्वात्, यावता पुनर्वाचिक-मानसे अपि ध्याने द्रष्टव्ये ॥ १२२ ॥ तथा चाह -
न विरुज्झति उस्सग्गे, झौणा वाइय - माणसा ।
तीरिए पुर्ण वस्सग्गे तिण्हमन्यरं सिया ॥ १२३ ॥
१. ०स्य कर्तु० वा. मो. पु. मु. ॥ २. झाणे वाइय- माणसे खं. ॥ ३. पुण उस्सग्गे - तिसृष्वपि भाष्यप्रतिषु मुद्रिते च ॥ ४. ०न्नयरे - चतसृष्वपि टीकाप्रतिषु मुद्रिते च ॥
For Private And Personal Use Only
गाथा
११८-१२३
व्युत्सर्गार्हप्रायश्चित्तादि
७३ (B)