________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ७३ (A)
महाव्रतानि दशवैकालिक श्रुतबद्धानि [अध्य० ४ सू.] कायोत्सर्गे ध्यायेत्, तेषामपि | प्रायः पंचविंशतिश्लोकप्रमाणत्वात्। यदि वा यान् तान् वा स्वाध्यायभूतान् पञ्चविंशतिश्लोकान् ध्यायेत्। स्त्रीविपर्यासे पुनः स्वप्नसम्भूते प्रायश्चित्तं कायोत्सर्गः सप्तविंशतिश्लोकिकः सप्तविंशतिश्लोकान् अष्टोत्तरशतमुच्छासानां तन्निमित्ते कायोत्सर्गे क्षपयेदिति भावः ॥ १२० ॥ उत्सर्गे प्रमाणमेव निरूपयति
पायसमा ऊसासा, कालपमाणेण होंति नायव्वा । एयं कालपमाणं, काउस्सग्गे मुणेयव्वं ॥ १२१ ॥
उच्छासाः कालप्रमाणेन भवन्ति ज्ञातव्याः पादसमाः। किमुक्तं भवति? यावता | : कालेनैकः श्लोकस्य पादश्चिन्त्यते तावत्कालप्रमाणः कायोत्सर्गे उच्छ्वास इति। एतत् | ११८-१२३ कालप्रमाणम् उच्छ्वासानां कायोत्सर्गे ज्ञातव्यम् ॥१२१ ॥
व्युत्सर्गार्ह
प्रायश्चित्तादि ___ अथ ध्यानं योगनिरोधात्मकं, "ध्यै योगनिरोधे" इति पूर्वमहर्षिवचनात् । तच्च | योगनिरोधात्मकं ध्यानं त्रिधा। तद्यथा- काययोगनिरोधात्मकं १, वाग्योगनिरोधात्मकं २,
७३ (A) १. शतिश्लोकवान्- खं. मो. ॥
गाथा
For Private And Personal Use Only