________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ७२ (B)
नाप्यन्यत् प्रयोजनं प्रारभते, अवश्यम्भाविविघ्नसम्भवात् ॥ ११८॥ सम्प्रति 'सुमिणदंसणे रातो' [गा. ११०] इति व्याख्यानयन्नाह
पाणवह-मुसावादे, अदत्त-मेहुण-परिग्गहे सुमिणे । संयमेगं ति अणूणं ऊसासाणं झवेज्जासि ॥ ११९॥ [ मूलाचार ६६१]
प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च स्वप्ने कृते कारिते अनुमोदिते च, केवलं मैथुने कारितेऽनुमोदिते एव, स्वयं कृते तु 'इत्थीविप्परियासे' [गा.१२०] इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात्, कायोत्सर्गः प्रायश्चित्तम्। तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छासानां क्षपयेत्, पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेद् इति भावः ॥ ११९ ॥ अथवा अपरः प्रकारस्तमेव दर्शयति
महव्वयाइं झाएज्जा सिलोगे पंचविंसति । इत्थीविप्परियासे तु सत्तावीससिलोइओ ॥ १२० ॥ १. पाणिवह - खं. पु. B3 ।। २. अट्ठसदं-मूलाचारे - अष्टोत्तरशतं तत्र वसुदनन्दीटीकायाम् ॥
गाथा ११८-१२३ व्युत्सर्गाहप्रायश्चित्तादि
७२ (B)
For Private And Personal Use Only