________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ७२ (A)
जनव्याघातसूचकेषु समुद्गतेषु तत्प्रतिघातनिमित्तं पञ्चमङ्गलम् अष्टोच्छ्वासप्रमाणं नमस्कारसूत्रं ध्यायेत् , यदि वा यौ वा तौ वा स्वाध्यायभूतौ द्वौ श्लोकौ चिन्तयेत्, अथवा यावता कालेन द्वौ श्लोकौ चिन्त्येते तत्क्षणं तावन्तं कालम् एकाग्रः कायोत्सर्गस्थः सन् शुभमना भूयात् ॥ ११७ ॥ बिइयं पुण खलियादिसु, उस्सासा होति तह य सोलस य । तइयम्मि उ बेत्तीसं, चउत्थंमि न गच्छए अण्णं ॥ ११८ ॥ द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे उच्छ्वासाः षोडश भवन्ति, षोडशोच्छ्वासप्रमाणः कायोत्सर्गः क्रियते इति भावः। तइयम्मि उ इत्यादि, तृतीये वारे-तृतीयस्यां वेलायां स्खलितादिषु जातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः। चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितादन्यत् स्थानं न गच्छति। उपलक्षणमेतत्
गाथा
܀܀܀܀܀܀܀܀܀܀܀܀܀
११८-१२३ व्युत्सर्गार्हप्रायश्चित्तादि
७२ (A)
१. ति सो लस य- जेभा. खंभा. ॥ २. बत्तीसा- खं. विना सर्वासु टीकाप्रतिषु भाष्यप्रतिषु च ॥
For Private And Personal Use Only