________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
जडत्वं जाड्यं र्हन्ति विनाशयति, प्रयत्नविशेषतः परमलाघवसम्भवात् । तथा कायोत्सर्गस्थितानां वासीचन्दनकल्पत्वात् सुख-दुःखमध्यस्थता सुखे दुःखे च परैरुदीर्यमाणे रागव्यवहार-द्वेषाऽकरणम्, अन्यथा सम्यक्कायोत्सर्गस्यैवासम्भवात् ॥ १२४ ॥ उक्तं व्युत्सग्र्गार्हप्रायश्चित्तम्। सूत्रम् इदानीं तपोर्ह वक्तव्यम् । तपश्च रात्रिन्दिवपञ्चकादारभ्य रात्रिंदिवपञ्चकादिवृद्ध्या तावन्नेयं यावत्षण्मासाः । तत्र येषु स्थानेषु रात्रिन्दिवपञ्चकं तपस्तान्युपदर्शयतिदंडगगहनिक्खेवे, औवसिय-निसिहिया अकरणे य । गुरूणं च अप्पणामे, पंच राईदिया होंति ॥ १२५ ॥
पीठिका
७४ (B)
Acharya Shri Kailassagarsuri Gyanmandir
दण्डं गृह्णन् न प्रत्युपेक्षते न प्रमार्जयतीत्येको भङ्गः १, न प्रत्युपेक्षते प्रमार्जयतीति द्वितीयः २, प्रत्युपेक्षते न प्रमार्जयतीति तृतीयः ३, प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः ४ । तत्राऽऽद्येषु [त्रिषु] भङ्गकेषु पश्चादानुपूर्व्या यथोत्तरं तपः- कालविशेषितो लघुर्मासः प्रत्येकं प्रायश्चित्तं, चतुर्थे चत्वारो भङ्गाः, तद्यथा- दुःष्प्रत्युपेक्षते दुष्प्रमार्जयति १ दुःष्प्रत्युपेक्षते सुप्रमार्जयति २ सुप्रत्युपेक्षते दुःष्प्रमार्जयति ३ सुप्रत्युपेक्षते सुप्रमार्जयति ४ अत्राऽऽद्येषु त्रिषु भङ्गेषु पश्चादानुपूर्व्या यथोत्तरं तपः- कालविशेषितानि पञ्चरात्रिंदिवानि प्रायश्चित्तम् ।
-
१. आवसिया च निसीहिया । गुरुणं जेभा० खंभा० । आवसियाए निसिहियाए य । गुरुणं वा भा० मु. ॥ २. •मे पंच तु ज्ञ० तिसृष्वपि भाष्यप्रतिषु ॥ ३. पश्चादनु B3 ॥ ४. • रात्रिन्दिवसानि वा० मो० ० ॥
For Private And Personal Use Only
गाथा
१२४-१२६
कायोत्सर्ग
स्वरूपादि
७४ (B)