________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ७१ (A)
श्रुतस्कन्धपरिवर्त्तने अङ्गपरिवर्त्तने च कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्छासप्रमाणः, पर्यन्तैकपादहीनः समस्तश्चतुर्विंशतिस्तवस्तत्र चिन्तनीय इति भावः। अद्वेव य इत्यादि, प्रस्थापनं स्वाध्यायस्य, प्रतिक्रमणं कालस्य, तयोः करणे कायोत्सर्गः प्रायश्चित्तमष्टावेवोच्छ्वासा अष्टोच्छ्वासप्रमाणः। आदिशब्दात् पानकमपि परिष्ठाप्य ऐर्यापथिकी प्रतिक्रमणोत्तरकालं कायोत्सर्गोऽष्टोच्छ्वासप्रमाणः करणीय इति द्रष्टव्यम्। एतच्चास्यैव व्यवहारस्य चूर्णौ दृष्ट्वा लिखितमिति ॥ ११४ ॥ अत्रैवाक्षेपमभिधित्सुराह
'पुव्वं पट्ठवणा खलु, उद्देसाई पच्छओ होति ।। पट्ठवणुद्देसादिसु अणाणुपुव्वी कया किन्नु? ॥ ११५ ॥
ननु पूर्व प्रस्थापना खलु स्वाध्यायस्य क्रियते, पश्चादुद्देशादयो भवन्ति, ततः प्रस्थापनोद्देशादिषु व्यवस्थितेषु किन्नु इत्याक्षेपे किमर्थं ननु अनानुपूर्वी अनन्तरगाथायां कृता? किमिति पश्चात् गाथायां पूर्वमुद्देशादय उक्ता:? तदनन्तरं प्रस्थापनम् इति भावः । नैष दोषः मतान्तरेणैवंरूपाया अप्यानुपूर्व्याः सम्भवात् ॥ ११५ ॥ तथा चाह१. तथा च चूर्णिः - "आदिग्गहणेणं पाणगं पि परिढुवेत्ता ईरियावहियाए पडिक्कमितव्वं" ॥२. नास्तीयं गाथा चूर्णी ॥ ३. °षु प्रस्थापनानन्तरमुद्देशादिषु व्य० B3 ॥
गाथा ११४-११७ व्यत्सुर्गार्हप्रायश्चित्तम्
७१ (A)
For Private And Personal Use Only