________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्री व्यवहार
सूत्रम् पीठिका ७० (B)
प्रतिक्रमणीयं, 'विश्रमणाऽसम्भवे गमनागमनमिति । तथा पाक्षिकादौ येऽन्यवसतिषु सुसाधवस्तेऽवश्यं वन्दनीया इति विधिः, ततस्तत्र वन्दको गतो यदा विश्राम्यति तदा गमनं, ततः स्वोपाश्रये प्रत्यागमने आगमनं, विश्रमणाभावे गमनागमनं प्रतिक्रमणीयमिति। उच्चारे प्रश्रवणे च हस्तशताद् बहिर्युत्सृष्टेऽपान्तराले प्रायो विश्रामणाऽसम्भवात् गमनागमनं समुदितं प्रतिक्रमणीयं भवति, यदाऽपि हस्तशतस्याभ्यन्तरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदापि 'वियारे'[गा.१०१] इति वचनात् ऐर्यापथिकीप्रतिक्रमणपुरस्सर: पञ्चविंशत्युच्छासप्रमाणः कायोत्सर्गः प्रायश्चित्तम् ॥ ११३ ॥ सम्प्रति 'सुत्ते' इति पदं व्याचिख्यासुराह
गाथा उद्देससमुद्देसे, सत्तावीसं तहा अणुनाए ।
११४-११७ अद्वैव य ऊसासा पट्ठवण-पडिक्कमणमादी ॥ ११४ ॥
व्यत्सुर्ह
प्रायश्चित्तम् उद्देश:- वाचना, सूत्रप्रदानमित्यर्थः, समुद्देश:- व्याख्या, अर्थप्रदानमिति भावः, ४ अनुज्ञा-सूत्रार्थयोरन्यप्रदानं प्रत्यनुमननम्, एतेषु। तथेतिशब्दोऽनुक्तसमुच्चयार्थः, तेन || ७० (B) १. विश्रामणा. वा. मो० पु० ॥
For Private And Personal Use Only