________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ७० (A)
एवमेव भक्त-पानयोरिव शेषेष्वपि स्थानेषु शयना-ऽऽसनादिषु यावन्नाद्यापि वेला |* भवति तावद् यत् प्रतीक्षणं तदेतदत्रान्तरम्, तस्मिन् अन्तरे निषद्यायामुपवेशने केवलं गमनं प्रतिक्रमणीयं भवति। तथाहि-शयनं नाम-संस्तारकादि, आसनं नाम-पीठकादि, तद्याचनार्थं । क्वचनापि गतः, तत्र ग्लानारत्वादिभिः कारणैः शरीरदुर्बलतया जातपरिश्रमो विश्रमितुकामः, संस्तारकादिप्रभुर्वा न विद्यते क्वचिदन्यत्र गतत्वात्, ततस्तं प्रतीक्षितुकाम ऐर्यापथिकपापविशोधनाय गमनं प्रतिक्रमतीति। आगमणं जं तत्तो इति एवं भक्त-पानाद्यर्थं विश्रम्य कार्यसमाप्तौ ततः स्थानाद् यदा भूयः स्वोपाश्रये प्रत्यावर्त्तते तदा केवलमागमनं प्रतिक्रमणीयं भवति । यदि पुनरेतेष्वेव प्रयोजनेषु नोक्तप्रकारेणाऽपान्तराले विश्रमणं भवति तदा निरन्तरे उक्तलक्षणस्याऽन्तरस्याभावे गतागतं गमनागमनं समुदितं प्रतिक्रमणीयं जायते। एवमर्हत्श्रमणशय्यास्वपि गमनमागमनं गमनागमनं च प्रतिक्रमितव्यं भावनीयम् । तद्यथा- पाक्षिकादिषु जिनभवनादौ चैत्यवन्दको गत्वा यदा स्नानादिदर्शननिमित्तमैर्यापथिकीं प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं
गाथा ११४-११७ व्यत्सुर्हप्रायश्चित्तम्
७० (A)
१. चरित्वा मो० । चारित्वा मु० ॥ २. • म ईर्या खं ॥ ३. त्तमीर्या खं ॥
For Private And Personal Use Only