SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्री व्यवहार सूत्रम् पीठिका ६८ (B) उपलक्षणमेतत् दुश्शकुन-दुर्निमित्तेषु वा तत्प्रतिघातकरणार्य कायोत्सर्गकरणं प्रायश्चित्तम्। नावा नइसंतारे इति, नौश्चतुर्द्धा, तद्यथा-समुद्रनौः१, उद्यानीर, अवयानी३, तिर्यग्गामिनी४ च। तत्र समुद्रनौः प्रवहणं, येन समुद्रो लयते १। शेषास्तिस्रो नद्यां, तत्रापि या नद्याः प्रतिस्रोतोगामिनी सा उद्यानी २। अनुस्रोतोगामिनी अवयानी ३। या पुनर्नदी तिर्यक् छिनत्ति सा तिर्यग्गामिनी ४। तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयापि नावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तम्। नदी- | सन्तारश्चतुर्विधः, तत्र पादाभ्यां त्रिधा, तद्यथा सङ्पट्टः१ लेपः२ तदुपरि३ च। तत्र : जवार्द्धप्रमाणे उदकसंस्पर्श संघट्टः१। नाभिप्रमाणे उदकसंस्पर्श लेप:२। तत उपरि गाथा उदकसंस्पर्श तदुपरि ३। चतुर्थो नदीसंस्तारो बाहूडुपादिभिः । एतेष्वपि सर्वत्र १११-११३ यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः। व्युत्सर्गः कायोत्सर्ग इत्यनर्थान्तरम् । एष |* विवेकाहगाथासंक्षेपार्थः ॥ ११० ॥ साम्प्रतमेनामेव गाथां विवरीषुर्येषु स्थानेषु गमनमागमनं व्युत्सर्गार्ह प्रायश्चित्तादि गमनाऽऽगमनं वा प्रतिक्रमणीयं सम्भवति, यो वा विचारविषयः, यत्प्रमाणं च तत्र कायोत्सर्गः प्रायश्चित्तं तदेतदपदर्शयन्नाह ६८ (B) १. च प्रायश्चित्तं कायोत्सर्ग: ना. वा. पुः ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy