________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ६८ (A)
गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं, भूयः स्वोपाश्रये गुरुपादमूले वा बहि:प्रदेशात् | प्रत्यावर्त्तनमागमनम्। गमनं चाऽऽगमनं च गमनागमनं, समाहारो द्वन्द्वः, गमनपूर्वमागमनं | गमनागमनं, गमनागमनं च गमनाऽऽगमनं च गमनागमने, 'स्यादावसंख्येय [ मलय.ना.९- ४ ३] इत्येकशेषः, तयोस्तत्र । यदा भक्ताद्यर्थमन्यस्मिन् ग्रामे गतः सन् विश्रामणनिमित्त- . मासितुकामः, अथवा यावन्नाद्यापि वेला भवति तावत् प्रतीक्षितुकामः यदि वा प्रथमालिकां कर्तुकामो यदा शून्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेऽपि ऐर्यापथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तम्। तदनन्तरं कार्यसमाप्तौ भूयः स्वोपाश्रयप्रवेशे | आगमनमात्रे कायोत्सर्गः। शेषेषु त् प्रयोजनेष्वपान्तराले विश्रामणाऽसम्भवे गमनाऽऽगमनयोरिति, वियारे इति विचारो नाम-उच्चारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं | १११-११३
विवेकाहकायोत्सर्गः। सुत्ते वा इति सूत्रविषयेषु उद्देश-समुद्देशा-ऽनुज्ञा-प्रस्थापन-प्रतिक्रमण
व्युत्सर्गार्हश्रुतस्कन्धा-ऽङ्गपरिवर्तनादिष्वविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः। वा प्रायश्चित्तादि समुच्चये। सुमिणदंसणे राओ इति, उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं,
६८ (A) रात्रौ स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टसूचके,
गाथा
For Private And Personal Use Only