________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
६७ (B)
www.kobatirth.org
पर्यालोच्य वसतिः 'प्रकृता' प्रकृष्टा कृता । तस्यां च कृतायां कालान्तरेण ते वाऽन्ये वा साधवः समागताः, तत्र स्थिताः । स्थितेषु च कतिपयदिनातिक्रमे अतिशेषितं ज्ञातं, ज्ञाते च सति तत्र प्रायश्चित्तं विवेकः । किमुक्तं भवति ? - ज्ञाते सति तां वसतिं परित्यजन्तस्ते शुद्धा इति। उपलक्षणमेतत्, तेन एतदपि द्रष्टव्यम् - अशठभावेन गिरि-राहु-मेघ-महिका-रजः समावृते सवितरि उद्गतबुद्ध्या अनस्तमितबुद्ध्या वा गृहीतमशनादिकं, पश्चाद् ज्ञातम्अनुद्गते अस्तमिते वा सूर्ये गृहीतं; तथा प्रथमपौरुष्यां गृहीत्वा चतुर्थीमपि पौरुषीं यावद् धृतमशनादि; शठभावेनाऽशठभावेन वा अर्धयोजनातिक्रमेण नीतमानीतं वाऽशनादि; तत्र विवेक एव प्रायश्चित्तमिति । शठाऽशठयोश्चेदं लक्षणम्- इन्द्रिय-विकथा-माया- क्रीडादिभिः कुर्वन् शठः, ग्लान-सागारिका-ऽस्थण्डिल-भयादिकारणतोऽशठ इति ॥१०९॥ उक्तं विवेकार्हं प्रायश्चित्तम् । सम्प्रति व्युत्सर्गार्हमाह
गमणाऽऽगमण - वियारे, सुत्ते वा सुमिणदंसणे राओ । नावा नइसंतारे, पायच्छित्तं विउस्सग्गो ॥ ११० ॥
१. उद्गमित वा० पु० ॥ २. १. करणतो - CB3 ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
܀܀܀܀
गाथा १०६-११०
तदुभयार्ह
प्रायश्चित्तम्
६७ (B)
1