SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सूत्रम् पीठिका ६३ (A) शङ्किते प्राणातिपातादौ यथा मया प्राणातिपातः कृतः किं वा न कृतः ? तथा मृषा भणितं न भणितं वा ? अवग्रहोऽनुज्ञापितो न वा ? स्नानादिदर्शननिमित्तं जिनभवनादिषु व्यवहार - गतस्य स्त्रीस्पर्शे रागगमनमभून्न वा ? इष्टाऽनिष्टेषु शब्दादिषु राग-द्वेषौ गतो न वा ? तक्रादिलेपकृदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेन धौताः किंवा न धौता ? इत्यादि । तत्र षण्णां स्थानानां बाह्यं तदुभयलक्षणं प्रायश्चित्तमिति योगः । तथा उपयोगवतोऽपि सहसाकारेण सहसा प्राणातिपातादिकरणे, तथा भये दुष्टम्लेच्छादिसमुत्थे यदि वा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शने वा आकुलतया प्राणातिपाता - दिकरणे, तथा आतुरः क्षुधा पिपासया वा पीडित:, भावप्रधानश्चायं निर्देशः ततोऽयमर्थ:आतुरतायाम् । तथा आपत् चतुर्द्धा तद्यथा - द्रव्यापत्, क्षेत्रापत्, कालापत्, भावापत् । तत्र द्रव्यापद्-दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापत्- छिन्नमडम्बादि । कालापद् दुर्भिक्षादि, भावापद् गाढग्लानत्वादि । एतासु च हिंसादोषमापद्यमानस्यापि अनात्मवशगस्य, तथाहिईर्यासमितावुपयुक्तोऽप्युच्चालिते पादे सहसा समापतितं कुलिङ्गिनमपि व्यापादयेत्, मृषाऽपि कदाचित्सहसा भाषते, अवग्रहमपि कदाचिद् राभसिकतया अननुज्ञातमपि परिभोगयति, अत्युल्बणमबलारूपमवलोक्य कदाचनापि सहसा रागमुपैति इत्यादि । तथा For Private And Personal Use Only गाथा ९७-९९ प्रायश्चित्त स्वरूपम् ६३ (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy