________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ६३ (B)
1.
भयात्प्रपलायमानो भू-जल-ज्वलन-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियानपि व्यापादयेत. मुषापि भयाद् भाषते, परिग्रहमपि धर्मोपकरणबाह्यस्य करोति। आतुरतायामपि सम्यगीर्यापथाऽशोधने सम्भवति प्राणातिपातः, अत्यातुरतायां कदाचिद् मृषाभाषणमपि अदत्तादानमपि च । एवमापत्स्वपि भावनीयम्, तथा महाव्रतानां प्राणातिपातनिवृत्त्यादीनां सहसाकारतः स्फुटबुद्ध्या कारणतो वा अतिचारे सति चशब्दादतिक्रम-व्यतिक्रमयोश्च, तथाऽतिक्रमादीनां महाव्रतविषयाणामन्यतमस्याऽऽशङ्कायां वा, किम्? इत्याह-छण्हं ठाणाण बज्झतो इति । इह केषाञ्चिद् अनवस्थित-पाराञ्चिते प्रायश्चित्ते द्वे अपि एकं प्रायश्चित्तमिति प्रतिपत्तिः, तन्मतेन नवधा प्रायश्चित्तं, तत्र चाद्ये द्वे प्रायश्चित्ते मुक्त्वा शेषाणि सप्त प्रायश्चित्तानि, तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तत् उपरितनानां षण्णां बाह्य, नाभ्यन्तरमिति षण्णां स्थानानां बाह्यतः इति वचसा तदेव प्रतिपत्तव्यम्। यच्च तदुभयं तच्चैवं भावनीयं- शङ्कितादिषु यथोक्तस्वरूपेषु सत्सु प्रथमं गुरूणां पुरत आलोचनं, तदनन्तरं गुरुसमादेशेन मिथ्यादुष्कृतदानमिति ॥ ९९ ॥
तत्र यदुक्तं 'संकिए' इति तद् विवृण्वन्नाह
X.
गाथा ९७-९९ प्रायश्चित्त स्वरूपम्
६३ (B)
For Private And Personal Use Only