________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पीठिका ६२ (A)
'जोगे तहा पसत्थे य,' (गा. ६०) इत्यत्र यत् प्रशस्तग्रहणं कृतं तद् अप्रशस्तं योगं परिपिट्टन-छेदादिकं वारयति निराकरोति, न तदकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः, तस्याप्रशस्तत्वेन तत्करणस्यैव प्रायश्चित्तविषयत्वात्। तथा ये अवसन्नानाम् उपलक्षणमेतत्, पार्श्वस्थ-कुशीलानां च, तथा गृहस्थानां पूर्वोक्ता उत्थानादयःअभ्युत्थानाऽञ्जल्याऽऽसनप्रदानादयस्तानपि वारयति, तेषामपि तान् प्रति अप्रशस्तत्वात् ॥९६ ॥ अत्रैव प्रायश्चित्तयोजनामाह
जो जत्थ उ करणिजो, उट्ठाणाई अकरणे तस्स । होइ पडिक्कमियव्वं, एमेव य वाय माणसिए ॥ ९७ ॥
यो योग उत्थानादिकः अभ्युत्थानाञ्जलिप्रदानादिको यंत्र आचार्यादिविषये करणीय उक्तस्तस्य तत्राऽकरणे प्रतिक्रमितव्यं भवति, मिथ्यादुष्कृतं प्रायश्चित्तं भवतीति भावः, तदेतत् कायिकप्रतिरूपयोगविषये उक्तम्, एवमेव अनेनैव प्रकारेण वाचिके मानसिकेऽपि योगे प्रतिरूपे वक्तव्यम्, यथा-वाचिको मानसिकोऽपि यः प्रतिरूपयोगो यथा यत्र करणीय | उक्तस्तस्य तथा तत्राऽकरणे मिथ्यादुष्कृतं प्रायश्चित्तमिति, चशब्दोऽनुक्तसमुच्चयार्थः। तेन
गाथा ९७-९९ प्रायश्चित्त स्वरूपम्
| ६२ (A)
For Private And Personal Use Only